Dear readers, here we are offering Dashavatara Stuti in Sanskrit PDF to all of you. Dashavatara Stuti is one of the most important Vedic holy hymns which is dedicated to all 10 forms of the Lord Vishnu. Lord Vishnu is a major deity in Hinduism who got worshipped worldwide.
The recitation of the Dashavatara Stuti plays a very vital role in the development of the personality of a particular person. Dashavatara here refers to the Ten incarnations of the Lord Vishnu Ji that he ook for the reforms and the progress of the society.
Dashavatara Stuti Lyrics in Sanskrit PDF
प्रोष्ठीशविग्रह सुनिष्ठीवनोद्धत विशिष्टाम्बुचारिजलधे ।
कोष्ठान्तराहितविचेष्टागमौघ परमेष्ठीडित त्वमवमाम् ।
प्रेष्ठार्कसूनुमनुचेष्ठार्थमात्मविदतीष्टो युगान्तसमये ।
स्थेष्ठात्मशृङ्गधृतकाष्ठाम्बुवाहन वराष्टापदप्रभतनो ॥ १॥
खण्डीभवद्बहुळडिण्डीरजृम्भण सुचण्डी कृतो दधि महा ।
काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित ।
चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो-
श्चण्डा मरेशहय तुण्डाकृते दृशमखण्डामलं प्रदिश मे ॥ २॥
कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मन्दर गिरे ।
धर्मावलम्बन सुधर्मासदाकलितशर्मा सुधावितरणात् ।
दुर्मान राहुमुख दुर्मायि दानवसुमर्माभिभेदन पटो ।
धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ ३॥
धन्वन्तरेऽङ्गरुचि धन्वन्तरेऽरितरु धन्वन्स्तरीभवसुधा-
भान्वन्तरावसथ मन्वन्तराधिकृत तन्वन्तरौषधनिधे ।
दन्वन्तरङ्गशुगुदन्वन्तमाजिषु वितन्वन्ममाब्धि तनया ।
सून्वन्तकात्महृदतन्वरावयव तन्वन्तरार्तिजलधौ ॥ ४॥
या क्षीरवार्धिमथनाक्षीणदर्पदितिजाक्षोभितामरगणा-
पेक्षाप्तयेऽजनि वलक्षांषुबिम्बजिदतीक्ष्णालकावृतमुखी ।
सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो-
दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ ५॥
शिक्षादियुङ्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती ।
दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ ।
प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा ।
साऽक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ ६॥
नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलाघृतोधधिधुनी-
शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते ।
कोलाकृते जलधि कालाचलावयव नीलाब्जदंष्ट्र धरणी-
लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ ७॥
दम्भोलितीक्ष्णनख सम्भेदितेन्द्ररिपु कुम्भीन्द्र पाहि कृपया ।
स्तम्भार्भ कासहनडिम्भाय दत्तवर गम्भीरनाद नृहरे ।
अंभोधिजानुसरणांभोजभूपवनकुम्भीनसेशखगराट् ।
कुम्भीन्द्रकृत्तिधर जम्भारिषण्मुखमुखांभोरुहाभिनुत माम् ॥ ८॥
पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुजा-
साङ्गाध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते ।
शृङ्गारपादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्तितटिनी-
तुङ्गाति मङ्गल तरङ्गाभिभूत भज काङ्गाघ वामन नमः ॥ ९॥
ध्यानार्ह वामनतनोनाथ पाहि यजमाना सुरेशवसुधा-
दानाय याचनिक लीनार्थवाग्वशितनानासदस्यदनुज ।
मीनाङ्कनिर्मलनिशानाथकोटिलसमानात्म मौञ्जिगुण कौ-
पीनाच्छसूत्रपदयानातपत्रकरकानम्यदण्डवरभृत् ॥ १०॥
धैर्याम्बुधे परशुचर्याधिकृत्तखलवर्यावनीश्वर महा-
शौर्याभिभूत कृतवीर्यात्मजातभुजवीर्यावलेपनिकर ।
भार्यापराधकुपितार्याज्ञयागलितनार्यात्मसूगलतरो ।
कार्यापराधमविचार्यार्यमौघजयिवीर्यामिता मयि दया ॥ ११॥
श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो-
हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर ।
स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे ।
स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ १२॥
श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू-
तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद ।
साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम् ।
राकेन्दु बिम्बमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले ॥ १३॥
रामे नृणां हृदभिरामेनराशिकुलभीमे मनोऽद्यरमताम् ।
गोमेदिनीजयितपोऽमेयगाधिसुतकामेनिविष्ट मनसि ।
श्यामे सदा त्वयि जितामेयतापसजरामे गताधिकसमे ।
भीमेशचापदलनामेयशौर्यजितवामेक्षणे विजयिनि ॥ १४॥
कान्तारगेहखलकान्तारटद्वदन कान्तालकान्तकशरम् ।
कान्तारयाम्बुजनिकान्तान्ववायविधुकान्ताश्मभादिपहरे ।
कान्तालिलोलदलकान्ताभिशोभितिलकान्ताभवन्तमनुसा ।
कान्तानुयानजित कान्तारदुर्गकटकान्ता रमात्ववतु माम् ॥ १५॥
दान्तं दशाननसुतान्तं धरामधिवसन्तं प्रचण्डतपसा ।
क्लान्तं समेत्य विपिनान्तं त्ववाप यमनन्तं तपस्विपटलम् ।
यान्तं भवारतिभयान्तं ममाशु भगवन्तं भरेण भजतात् ।
स्वान्तं सवारिदनुजान्तं धराधरनिशान्तं स तापसवरम् ॥ १६॥
शम्पाभचापलवकंपास्तशत्रुबलसम्पादितामितयशाः ।
शं पादतामरससम्पातिनोऽलमनुकम्पारसेन दिश मे ।
सम्पातिपक्षिसहजं पापिरावणहतं पावनं यदकृथाः ।
त्वं पापकूपपतितं पाहि मां तदपि पम्पासरस्तटचर ॥ १७॥
लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवधखेलाकुतूहलगते ।
स्वालापभूमिजनिबालापहार्यनुजपालाद्य भो जयजय ।
बालाग्निदग्धपुरशालानिलात्मजनिफालात्तपत्तलरजो ।
नीलाङ्गदादिकपिमालाकृतालिपथमूलाभ्यतीतजलधे ॥ १८॥
तूणीरकार्मुक कृपाणीकिणाङ्कभुजपाणीरविप्रतिमभाः ।
क्षोणिधरालिनिभघोणीमुखादिघनवेणीसुरक्षणकरः ।
शोणिभवन्नयन कोणीजिताम्बुनिधिपाणीरितार्हणमणि-
श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवरवाणीस्तुतो विजयते ॥ १९॥
हुङ्कारपूर्वमथ टङ्कारनादमतिपङ्कावधार्यचलिता ।
लङ्काशिलोच्चयविशङ्कापतद्भिदुर शङ्काऽऽस यस्य धनुषः ।
लङ्काधिपोऽमनुत यं कालरात्रिमिव शङ्काशताकुलधिया ।
तं कालदण्डशतसङ्काशकार्मुकशराङ्कान्वितं भज हरिम् ॥ २०॥
धीमानमेयतनुधामार्तमङ्गळदनामा रमाकमलभू-
कामारिपन्नगपकामाहिवैरिगुरुसोमादिवन्द्यमहिमा ।
स्थेमादिनापगतसीमावतात्सखलसामाजरावणरिपू ।
रामाभिदो हरिरभौमाकृतिः प्रतनसामादिवेदविषयः ॥ २१॥
दोषात्मभूवशतुराषाडतिक्रमजदोषात्मभर्तृवचसा ।
पाषाणभूतमुनियोषावरात्मतनुवेषादिदायिचरणः ।
नैषादयोषिदशुभेषाकृदण्डजनिदोषाचरादिशुभदो ।
दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात् ॥ २२॥
वृन्दावनस्थपशुवृन्दावनं विनुतवृन्दारकैकशरणम् ।
नन्दात्मजं निहतनिन्दाकृदासुरजनं दामबद्धजठरम् ।
वन्दामहे वयममन्दावदातरुचिमान्दाक्षकारिवदनम् ।
कुन्दालिदन्तमुत कन्दासितप्रभतनुं दावराक्षसहरम् ॥ २३॥
गोपालकोत्सवकृतापारभक्ष्यरससूपान्नलोपकुपिता ।
शापालयापितलयापाम्बुदालिसलिलापायधारितगिरे ।
स्वापाङ्गदर्शनज तापाङ्गरागयुतगोपाङ्गनांशुकहृति-
व्यापारशौण्ड विविधापायतस्त्वमव गोपारिजातहरण ॥ २४॥
कंसादिकासदवतंसावनीपतिविहिंसाकृतात्मजनुषम् ।
संसारभूतमिह संसारबद्धमनसं सारचित्सुखतनुम् ।
संसाधयन्तमनिशं सात्त्विकव्रजमहं सादरं बत भजे ।
हंसादितापसरिरंसास्पदं परमहंसादिवन्द्यचरणम् ॥ २५॥
राजीवनेत्र विदुराजीव मामवतु राजीवकेतनवशम् ।
वाजीभपत्तिनृपराजीरथान्वितजराजीवगर्वशमन ।
वाजीशवाह सितवाजीश दैत्यतनुवाजीशभेदकरदोः ।
जाजीकदम्बनवराजीवमुख्यसुमराजीसुवासितशिरः ॥ २६॥
कालीहृदावसथकालीयकुण्डलिपकालीस्थपादनखरा ।
व्यालीनवांशुकरवालीगणारुणितकालीरुचे जय जय ।
केलीलवापहृतकालीशदत्तवरनालीकदृप्तदितिभू-
चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय ॥ २७॥
कृष्णादिपाण्डुसुतकृष्णामनःप्रचुरतृष्णासुतृप्तिक रवाक् ।
कृष्णाङ्कपालिरत कृष्णाभिधाघहर कृष्णादिषण्महिळ भोः ।
पुष्णातु मामजित निष्णातवार्धिमुदनुष्णांशुमण्डल हरे ।
जिष्णो गिरीन्द्रधर विष्णो वृषावरज धृष्णो भवान्करुणया ॥ २८॥
रामाशिरोमणिधरामासमेत बलरामानुजाभिध रतिम् ।
व्योमासुरान्तकर ते मारतात दिश मे माधवाङ्घ्रिकमले ।
कामार्तभौमपुररामावलीप्रणयवामाक्षिपीततनुभा ।
भीमाहिनाथमुखवैमानिकाभिनुत भीमाभिवन्द्यचरण ॥ २९॥
सक्ष्वेळभक्ष्यभयदाक्षिश्रवोगणजलाक्षेपपाशयमनम् ।
लाक्षागृहज्वलनरक्षोहिडिम्बबकभैक्षान्नपूर्वविपदः ।
अक्षानुबन्धभवरूक्षाक्षरश्रवणसाक्षान्महिष्यवमती ।
कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ ३०॥
चक्षाण एव निजपक्षाग्रभूदशशताक्षात्मजादिसुहृदा-
माक्षेपकारिकुनृपाक्षौहिणीशतबलाक्षोभदीक्षितमनाः ।
तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिजलक्ष्माणि चाप्यगणयन् ।
वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ ३१॥
बुद्धावतार कविबद्धानुकम्प कुरु बद्धाञ्जलौ मयि दयाम् ।
शौद्धोदनिप्रमुखसैद्धान्तिकासुगमबौद्धागमप्रणयन ।
क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयान कमला ।
शुद्धान्त मां रुचिपिनद्धाखिलाङ्ग निजमद्धाव कल्क्यभिध भोः ॥ ३२॥
सारङ्गकृत्तिधरसारङ्गवारिधर सारङ्गराजवरदा-
सारं गदारितरसारं गतात्ममदसारं गतौषधबलम् ।
सारङ्गवत्कुसुमसारं गतं च तव सारङ्गमाङ्घ्रियुगलम् ।
सारङ्गवर्णमपसारं गताब्जमदसारं गदिंस्त्वमव माम् ॥ ३३॥
ग्रीवास्यवाहतनुदेवाण्डजादिदशभावाभिरामचरितम् ।
भावातिभव्यशुभधीवादिराजयतिभूवाग्विलासनिलयम् ।
श्रीवागधीशमुखदेवाभिनम्यहरिसेवार्चनेषु पठता-
मावास एव भवितावाग्भवेतरसुरावासलोकनिकरे ॥ ३४॥
इति श्रीमद्वादिराजपूज्यचरण विरचितं
श्रीदशावतारस्तुतिः सम्पूर्णम्
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु
You can download Dashavatara Stuti in Sanskrit PDF by clicking on the following download button.